संवादानुच्छेदलेखनम्
CBSE · Class 9 · Sanskrit
NCERT Solutions for संवादानुच्छेदलेखनम् — CBSE Class 9 Sanskrit.
Interactive on Super Tutor
Studying संवादानुच्छेदलेखनम्? Get the full interactive chapter.
Quizzes, flashcards, AI doubt-solver and a step-by-step study plan — built for ncert solutions and more.
1,000+ Class 9 students started this chapter today
संवादानुच्छेदलेखनम्
1अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (लता-राधिका संवाद: काव्यालि-प्रतियोगिताविषये)Show solution
लता – राधिके! प्रातःकाले एव सज्जीभूय कुत्र गन्तुं सन्नद्धा?
राधिका – 1. (ख) अहं विद्यालयं गच्छामि।
लता – विद्यालयम्! अस्यां वेशभूषायाम्? तव गणवेशः कुत्राऽस्ति?
राधिका – 2. (ङ) अद्य काव्यालि-प्रतियोगिता अस्ति, अहं प्रतियोगितायां भागं ग्रहीतुं सज्जीभूय गच्छामि।
लता – अहा! काव्यालिस्पर्धा! बहुशोभनम्। स्पर्धा तव विद्यालये एव अस्ति उत अपरस्मिन् विद्यालये?
राधिका – 3. (घ) विद्यालये नास्ति स्पर्धा, वयं शिक्षिकया सह अपरं विद्यालयं गमिष्यामः।
लता – त्वम् प्रतियोगितायां सम्यग्रूपेण प्रस्तुतिं कुर्याः इति मम शुभकामना।
राधिका – 4. (ग) धन्यवादः भगिनि।
लता – 5. (क) शुभास्ते सन्तु पन्थानः।
उत्तरसंकेत: 1-ख, 2-ङ, 3-घ, 4-ग, 5-क
स्पष्टीकरण:
- रिक्तस्थान 1 में राधिका को अपने जाने का स्थान बताना है → (ख)
- रिक्तस्थान 2 में गणवेश न पहनने का कारण बताना है → (ङ)
- रिक्तस्थान 3 में स्पर्धा के स्थान की जानकारी देनी है → (घ)
- रिक्तस्थान 4 में शुभकामना के उत्तर में धन्यवाद देना है → (ग)
- रिक्तस्थान 5 में लता को विदाई में शुभकामना देनी है → (क)
2अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (राहुल:-अभिनव:-तरुण: संवाद: संस्कृतछात्रविषये)Show solution
राहुल: – अभिनव! नमो नमः! चिरात् दृष्टोऽसि?
अभिनव – 1. (ङ) अहं मातुलगृहं गतवान् आसम्। अयं मम मातुलपुत्रः तरुणः। एनं मिलतु।
राहुल: – अभिवादये तरुण! भवता सह मिलित्वा प्रसन्नोऽस्मि।
तरुण: – 2. (ग) अहमपि प्रसन्नोऽस्मि।
राहुल: – भवान् किं करोति?
तरुण: – अहं संस्कृतसाहित्ये स्नातकोत्तरपरीक्षां संपाद्य आगतोऽस्मि।
राहुल: – 3. (घ) परं भवन्तं दृष्ट्वा तु न प्रतीयते यत् भवान् संस्कृतच्छात्रः।
तरुण: – किमर्थम्?
राहुल: – 4. (क) भवान् आधुनिकैः वस्त्रैः सज्जः, बहुमूल्यं च चलदूरभाषयन्त्रं धारयन् आधुनिक इव प्रतीयते।
तरुण: – संस्कृतपठनेन सह वैज्ञानिकप्रविधीनाम् उपयोगे न कोऽपि दोषः? अहं तु सर्वाणि वैज्ञानिकोपकरणानि उपयुञ्जे।
राहुल: – शोभनम्। 5. (ख) मम मनसः भ्रान्तिरियम् अपगता यत् संस्कृताध्येतारः रूढिवादिनः भवन्ति।
उत्तरसंकेत: 1-ङ, 2-ग, 3-घ, 4-क, 5-ख
स्पष्टीकरण:
- रिक्तस्थान 1 में अभिनव को अपनी अनुपस्थिति का कारण और तरुण का परिचय देना है → (ङ)
- रिक्तस्थान 2 में तरुण को प्रसन्नता व्यक्त करनी है → (ग)
- रिक्तस्थान 3 में राहुल को आश्चर्य व्यक्त करना है → (घ)
- रिक्तस्थान 4 में आधुनिक वेशभूषा का उल्लेख करना है → (क)
- रिक्तस्थान 5 में भ्रान्ति दूर होने की बात कहनी है → (ख)
3अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (माता-पुत्र संवाद: संस्कृतश्लोकोच्चारण-प्रतियोगिताविषये)Show solution
माता – पुत्र! त्वम् अधुना किं पठसि?
पुत्र: – 1. (ङ) अहं संस्कृत-श्लोकान् कण्ठस्थीकरोमि।
माता – काऽपि परीक्षा अस्ति संस्कृतस्य किम्?
पुत्र: – मातः! 2. (घ) परश्वः संस्कृतश्लोकोच्चारण-प्रतियोगिता वर्तते।
माता – अतीव शोभनम्! अभ्यासं कृत्वा सोत्साहं स्पर्धायां भागग्रहणं कुरु।
पुत्र: – 3. (ख) परमहं श्लोकान् स्मृत्वा अपि विस्मरामि। न जाने कीदृशी प्रस्तुतिः भविष्यति?
माता – प्रथमं श्लोकानाम् अर्थान् अवबोध, ततः स्मरणं कुरु। एवं न विस्मरिष्यसि।
पुत्र: – 4. (ग) मातः! मां श्लोकानाम् अर्थान् अवबोधय।
माता – आगच्छ पुत्र! अहम् सर्वेषां श्लोकानाम् अर्थमपि अवबोधयामि, सस्वरवाचनं चापि शिक्षयामि।
पुत्र: – (प्रसन्नतया) 5. (क) मातः! अतीव स्नेहमयी असि त्वम्। अहं त्वयि भृशं स्निह्यामि।
(कथयित्वा आलिङ्गति)
उत्तरसंकेत: 1-ङ, 2-घ, 3-ख, 4-ग, 5-क
स्पष्टीकरण:
- रिक्तस्थान 1 में पुत्र को अपनी वर्तमान गतिविधि बतानी है → (ङ)
- रिक्तस्थान 2 में प्रतियोगिता की जानकारी देनी है → (घ)
- रिक्तस्थान 3 में श्लोक भूल जाने की समस्या बतानी है → (ख)
- रिक्तस्थान 4 में माता से सहायता माँगनी है → (ग)
- रिक्तस्थान 5 में प्रसन्नतापूर्वक माता के प्रति स्नेह व्यक्त करना है → (क)
4अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (मोहन:-पितृव्य: संवाद: पर्यावरणप्रदूषणविषये)Show solution
मोहन: – नमो नमः पितृव्य! कथमस्ति भवान्?
पितृव्य: – अहम् सम्यक् अस्मि। अपि यूयं स्वस्थाः स्थ?
1. (घ) देहल्यां पर्यावरणप्रदूषणेन स्थितिः भयङ्करी अस्ति इति श्रुतं मया।
मोहन: – आम् पितृव्य! प्रदूषणस्य स्थितिः तु गभीरा सञ्जाता। अत एव
2. (ङ) विद्यालयेषु अपि त्रिदिवसीयः अवकाशः घोषितः।
पितृव्य: – अवकाशः! परमनेन किं भविष्यति?
3. (क) प्रदूषणस्य दुष्प्रभावः तु बालैः सह वयस्कानामपि स्वास्थ्ये भवति।
मोहन: – इदं तु सत्यम्। सर्वकारः प्रदूषणनिवारणाय अन्यानपि उपायान् करोति।
पितृव्य: – 4. (ख) सर्वकारेण सह सामान्यजनैः अपि प्रदूषणवारणस्य प्रयत्नः करणीयः।
मोहन: – आम् पितृव्य! सर्वकारेण तु अनेके उपायाः कृताः। जनाः सार्वजनिकवाहनानां प्रयोगाय प्रेरिताः, समविषमनियमानां प्रयोगेण वाहनयातायातं न्यूनीकरणीयम् इति च निर्दिष्टम्।
पितृव्य: – वत्स! त्वमपि स्वास्थ्यरक्षणाय तत्परो भव।
5. (ग) अपरिहार्यस्थितौ एव गृहात् बहिः गच्छ। यावत् वायौ हानिकारकाणि तत्त्वानि सन्ति, तावत्पर्यन्तं गृहे तिष्ठ।
उत्तरसंकेत: 1-घ, 2-ङ, 3-क, 4-ख, 5-ग
स्पष्टीकरण:
- रिक्तस्थान 1 में पितृव्य को दिल्ली के प्रदूषण की जानकारी देनी है → (घ)
- रिक्तस्थान 2 में विद्यालय अवकाश की सूचना देनी है → (ङ)
- रिक्तस्थान 3 में प्रदूषण के दुष्प्रभाव बताने हैं → (क)
- रिक्तस्थान 4 में जनसहयोग की आवश्यकता बतानी है → (ख)
- रिक्तस्थान 5 में स्वास्थ्य-रक्षा हेतु सुझाव देना है → (ग)
5अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (रमेशप्रसाद:-प्रधानाचार्य: संवाद: विद्यालयप्रवेशविषये)Show solution
रमेशप्रसाद: – अभिवादये महोदय!
प्रधानाचार्य: – नमो नमः, किमागमनप्रयोजनम्?
रमेशप्रसाद: – 1. (ग) अहं भवतां विद्यालये स्वपुत्रस्य प्रवेशार्थम् निवेदनं कर्तुम् आगतोऽस्मि।
प्रधानाचार्य: – परं सत्रस्य मध्ये प्रवेशः कथं संभवो भविष्यति?
रमेशप्रसाद: – 2. (घ) अहं स्थानान्तरितो भूत्वा अत्रागतोऽस्मि, अत एव सत्रस्य मध्ये प्रवेशार्थं प्रार्थये।
प्रधानाचार्य: – अस्तु, पश्यामि अहं किं कर्तुं शक्नोमि? भवान् किं करोति? छात्रस्य माता वा किं करोति?
रमेशप्रसाद: – 3. (क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मि। मम पत्नी एका गृहिणी अस्ति। सा गृहस्य सर्वाणि कार्याणि सम्पादयति।
प्रधानाचार्य: – सा शिक्षिता अस्ति न वा?
रमेशप्रसाद: – 4. (ङ) आम् महोदय! सा स्नातकपरीक्षोत्तीर्णा अस्ति।
प्रधानाचार्य: – इदं तु बहुशोभनम्। शिक्षिता माता
5. (ख) शिशोः आचारव्यवहारेण समं शैक्षिकप्रगतेः अपि अवधानं कर्तुं समर्था भवति।
उत्तरसंकेत: 1-ग, 2-घ, 3-क, 4-ङ, 5-ख
स्पष्टीकरण:
- रिक्तस्थान 1 में आगमन का प्रयोजन बताना है → (ग)
- रिक्तस्थान 2 में सत्र के मध्य प्रवेश का कारण बताना है → (घ)
- रिक्तस्थान 3 में अपना और पत्नी का परिचय देना है → (क)
- रिक्तस्थान 4 में पत्नी की शिक्षा बतानी है → (ङ)
- रिक्तस्थान 5 में शिक्षित माता की विशेषता बतानी है → (ख)
6अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (प्रवीर:-मनोज: संवाद: उद्दण्डछात्रविषये)Show solution
प्रवीर: – मनोज-महोदय! चिन्तित इव प्रतीयसे? किं कारणं खलु?
मनोज: – 1. (घ) द्वित्रेभ्यः मासेभ्यः एकः छात्रः उद्दण्ड इव आचरति।
अहम् तस्य व्यवहारेण उद्विग्नतामनुभवामि।
प्रवीर: – किं सः आरम्भतः एव उद्दण्डः आसीत्?
मनोज: – 2. (ङ) न, न, सः तु अतीव विनयशीलः आसीत्।
न जाने इदानीं सः किमर्थम् एवम् आचरति? इति न जाने।
प्रवीर: – 3. (क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्?
मनोज: – कक्षायां पञ्चाशात् छात्राः भवन्ति। किम् एकैकस्योपरि ध्यानं संभवमस्ति?
प्रवीर: – 4. (ख) सर्वेषामुपरि तु व्यक्तिगतावधानं न संभवम्।
परम् यदि कोऽपि असामान्यमाचरति, तर्हि तस्य व्यवहारोपरि तु अवधानं दातव्यमेव।
मनोज: – शोभनं कथयसि। 5. (ग) अहं मनोवैज्ञानिकरीत्या तस्य व्यवहारस्य कारणं ज्ञास्यामि।
उत्तरसंकेत: 1-घ, 2-ङ, 3-क, 4-ख, 5-ग
स्पष्टीकरण:
- रिक्तस्थान 1 में चिन्ता का कारण बताना है → (घ)
- रिक्तस्थान 2 में पहले के व्यवहार का वर्णन करना है → (ङ)
- रिक्तस्थान 3 में कारण जानने का प्रश्न पूछना है → (क)
- रिक्तस्थान 4 में व्यक्तिगत ध्यान की सीमा बतानी है → (ख)
- रिक्तस्थान 5 में मनोवैज्ञानिक उपाय बताना है → (ग)
7अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (शुभंकर:-माधवी-अनुराग:-लता-आशीष: संवाद: अल्पाहारविषये)Show solution
शुभंकर: – माधवि! त्वम् अल्पाहारार्थं किम् आनीतवती असि?
माधवी – 1. (ख) मम अल्पाहारपात्रे रोटिका, पनसशाकं चास्ति।
अनुराग: – अहम् ओदनं द्विदलं च आनीतवान् अस्मि।
शुभंकर: – मम माता महं रोटिकां तुम्बीफलशाकं च दत्तवती, परम्
2. (ग) महां न रोचते रोटिका, शाकं च।
लता – मम पार्श्व आलुकस्य चिप्स इति पर्पटाः शीतलपेयं चास्ति।
3. (ङ) किं तुभ्यं रोचते?
शुभंकर: – आम्, महां शीतलपेयं रोचते।
आशीष: – 4. (क) अद्यैव शिक्षिका संतुलिताहारविषये पाठितवती।
किं विस्मृतं त्वया यत् चिप्सादिकानि जंक इति भोज्यवस्तूनि स्वास्थ्याय हितकराणि न भवन्ति।
शुभंकर: – यद्वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम?
आशीष: – सर्वदा तथ्यमिदं स्मरणीयं यत् 5. (घ) रुचिकरं भोजनं सर्वदा स्वास्थ्यप्रदं न भवति।
उत्तरसंकेत: 1-ख, 2-ग, 3-ङ, 4-क, 5-घ
स्पष्टीकरण:
- रिक्तस्थान 1 में माधवी को अपना अल्पाहार बताना है → (ख)
- रिक्तस्थान 2 में शुभंकर को रोटी-शाक न पसंद होने की बात कहनी है → (ग)
- रिक्तस्थान 3 में लता को शुभंकर से पूछना है → (ङ)
- रिक्तस्थान 4 में आशीष को शिक्षिका की बात याद दिलानी है → (क)
- रिक्तस्थान 5 में स्वास्थ्यप्रद भोजन का सत्य बताना है → (घ)
8अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (आचार्य:-प्रणव: संवाद: जीवनलक्ष्यविषये)Show solution
आचार्य: – प्रणव! किं त्वं स्वजीवनलक्ष्यं निर्धारितवान्?
प्रणव: – आम् गुरवः। 1. (ख) अहं चिकित्साविज्ञानं पठिष्यामि।
आचार्य: – शोभनम्, तर्हि चिकित्सको भूत्वा जनसेवां करिष्यसि।
2. (घ) उत्तमं जीवनलक्ष्यम्।
प्रणव: – महोदय! चिकित्साक्षेत्रे बहुधनार्जनस्यापि अवसरः प्राप्यते।
3. (ङ) अहं तु चिकित्सको भूत्वा विदेशे जीवनं यापयिष्यामि इति मम मनसि बलवती इच्छा अस्ति।
आचार्य: – किम् धनार्जनाय विदेशगमनमेव तव जीवनोद्देश्यम्?
4. (ग) भारते अध्ययनं कृत्वा विदेशं पलायिष्यसे? किमिदम् उचितम्?
प्रणव: – आचार्य! किं स्वप्रतिभायाः उपयोगं कृत्वा सुविधाकांक्षा नोचिता?
आचार्य: – अनुचिता नास्ति सुविधानां धनानां च इच्छा, परम्
5. (क) स्वदेशं प्रति स्वकर्तव्यस्य उपेक्षा न करणीया।
उत्तरसंकेत: 1-ख, 2-घ, 3-ङ, 4-ग, 5-क
स्पष्टीकरण:
- रिक्तस्थान 1 में प्रणव को अपना लक्ष्य बताना है → (ख)
- रिक्तस्थान 2 में आचार्य को प्रशंसा करनी है → (घ)
- रिक्तस्थान 3 में विदेश जाने की इच्छा व्यक्त करनी है → (ङ)
- रिक्तस्थान 4 में आचार्य को प्रश्न करना है → (ग)
- रिक्तस्थान 5 में देशकर्तव्य का स्मरण कराना है → (क)
9अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (प्रवीर:-अतुल:-देवेश:-नीलिमा-वैष्णवी-मण्डन:-अवनीश: संवाद: समावर्तनसंस्कारे भविष्यनिर्माणविषये)Show solution
प्रवीर: – श्वः अस्माकं समावर्तनसंस्कारः (farewell ceremony) अस्ति। न जाने कथं द्रुतगत्या वर्षाणि व्यतीतानि।
अतुल: – 1. (क) द्वादशकक्षानन्तरं त्वं कस्मिन् क्षेत्रे भविष्यनिर्माणं करिष्यसि?
प्रवीर: – अहं तु अभियन्त्रविज्ञानं पठिष्यामि।
देवेश: – मया तु चिकित्साविज्ञानं पठिष्यते।
नीलिमा – 2. (घ) अहं वस्त्रालंकरणविज्ञानं पठिष्यामि।
वैष्णवी – अहं "मधुबनीचित्रकला" इत्यस्य प्रशिक्षणं प्राप्य कुटीरोद्योगं चालयिष्यामि। महां चित्रांकनम् अतीव रोचते।
अतुल: – 3. (ग) अहो महदाश्चर्यम्! कक्षायाः सर्वाधिका मेधाविनी छात्रा चित्रकलाक्षेत्रे भविष्यनिर्माणं करिष्यति?
मण्डन: – अस्मिन् कीदृशम् आश्चर्यम्? 4. (ङ) अहमपि कृषिविज्ञानं पठित्वा कृषिकार्यं करिष्यामि।
देवेश: – त्वमपि मण्डन! तव गणितक्षेत्रे दक्षतां दृष्ट्वा त्वयि भविष्यस्य गणितज्ञं पश्यामि अहम्। त्वं कृषिकार्यं करिष्यसि?
मण्डन: – 5. (ख) अथ किम्? वैज्ञानिकरीत्या कृषिकार्यं कृत्वा अहं देशस्य कृषिसम्पदः विकासे योगदानं करिष्यामि।
उत्तरसंकेत: 1-क, 2-घ, 3-ग, 4-ङ, 5-ख
स्पष्टीकरण:
- रिक्तस्थान 1 में अतुल को भविष्य के बारे में प्रश्न पूछना है → (क)
- रिक्तस्थान 2 में नीलिमा को अपना लक्ष्य बताना है → (घ)
- रिक्तस्थान 3 में वैष्णवी के चुनाव पर आश्चर्य व्यक्त करना है → (ग)
- रिक्तस्थान 4 में मण्डन को अपना लक्ष्य बताना है → (ङ)
- रिक्तस्थान 5 में कृषि के प्रति दृढ़ संकल्प व्यक्त करना है → (ख)
10अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यै: पूर्यत — (अभिषेक:-माता संवाद: स्वच्छताविषये)Show solution
अभिषेक: – मातः! गृहात् बहिः अवकरः प्रक्षिप्तः अस्ति। कः प्रक्षिप्तवान् अवकरम्?
माता – 1. (ङ) अहमेव गृहस्य मार्जनं कृत्वा अवकरं बहिः प्रक्षिप्तवती।
किमभवत्? त्वं किमर्थं पृच्छसि?
अभिषेक: – मातः! किं गृहाभ्यन्तरं मार्जनेन एव स्वच्छताकार्यं समाप्यते खलु?
माता – 2. (घ) सर्वे स्वगृहमेव परिष्कुर्वन्ति।
अभिषेक: – मातः! मार्गमुभयतः अवकराणां पर्वत इव दृश्यते, तस्य मालिन्यम् अस्माकं श्वसनतन्त्रे अवरोधं जनयति। एते 3. (क) अवकराः अनेकान् रोगान् अपि जनयन्ति।
अत एव अस्माभिः अस्माकं परिवेशः स्वच्छः करणीयः।
माता – त्वं सुष्ठु भणसि। परं किमहमेकाकिनी एव मार्गस्य परिष्करणं करवाणि?
अभिषेक: – 4. (ख) वयम् आरम्भं कुर्मः। शनैः शनैः अन्ये अपि अस्मिन् पावनकर्मणि सहयोगिनः भविष्यन्ति।
माता – शोभनं वत्स! परं सद्य एव तव मनसि स्वच्छतायाः संकल्पः कथम् उद्भूतः?
अभिषेक: – 5. (ग) अद्य विद्यालये स्वच्छतायाः महत्त्वविषये आचार्या पाठितवती।
उत्तरसंकेत: 1-ङ, 2-घ, 3-क, 4-ख, 5-ग
स्पष्टीकरण:
- रिक्तस्थान 1 में माता को अवकर फेंकने की बात स्वीकार करनी है → (ङ)
- रिक्तस्थान 2 में माता को सामान्य व्यवहार बताना है → (घ)
- रिक्तस्थान 3 में अवकर से होने वाले रोगों का उल्लेख करना है → (क)
- रिक्तस्थान 4 में अभिषेक को सामूहिक प्रयास का सुझाव देना है → (ख)
- रिक्तस्थान 5 में स्वच्छता-संकल्प का कारण बताना है → (ग)
11स्वस्य भ्रात्रा, भगिन्या अथवा मित्रेण सह संवादं पञ्चवाक्यै: स्वशब्दै: लिखत।Show solution
(मित्रेण सह संवाद: परीक्षाविषये)
अहम्: मित्र! श्वः गणितपरीक्षा अस्ति। त्वम् अभ्यासं कृतवान् किम्?
मित्रम्: आम्! अहं सर्वान् अध्यायान् पठितवान्। परन्तु बीजगणितस्य प्रश्नाः कठिनाः प्रतीयन्ते।
अहम्: चिन्तां मा कुरु। अहं तुभ्यं बीजगणितस्य प्रश्नान् बोधयामि।
मित्रम्: धन्यवादः! त्वम् अतीव उपकारशीलः असि।
अहम्: मित्रस्य सहायता करणम् अस्माकं कर्तव्यम् अस्ति। आगच्छ, सह अभ्यासं कुर्वः।
विशेष सूचना: छात्राः स्वशब्दैः स्वानुभवानुसारं भ्रातृ-भगिनी-मित्रसंवादं लिखेयुः। संवादे संस्कृतव्याकरणस्य शुद्धता, वाक्यसंरचना च ध्यातव्या।
अनुच्छेदलेखनम् (श्रवण-भाषण-कौशल-विकासार्थम्)
1'मम परिचयः' इति अनुच्छेदं पठित्वा स्वपरिचयरूपेण कानिचित् वाक्यानि लिखत।Show solution
मम नाम ............... अस्ति। अहं ............... वर्षीयः/वर्षीया बालकः/बालिका अस्मि। अहं ............... विद्यालये नवमकक्षायां पठामि। अहम् ............... नगरे/ग्रामे निवसामि। मम गृहे मम पितरौ, ............... च सन्ति। सर्वे मयि स्निह्यन्ति। अध्ययनक्षेत्रे ............... विषयः मे अतीव रोचते। भाषासु संस्कृतभाषा मे प्रिया। भविष्ये ............... क्षेत्रे नैपुण्यमधिगमिष्यामीति मे जीवनलक्ष्यम्।
निर्देश: छात्राः रिक्तस्थानेषु स्वनाम, स्वआयुः, स्वविद्यालयनाम, स्वनगरनाम, स्वप्रियविषयः, स्वजीवनलक्ष्यं च लिखेयुः। अध्यापकः आदर्शवाचनं कुर्यात्, छात्राः च श्रुत्वा स्वपरिचयं लिखेयुः।
2'पर्यावरण-प्रदूषणम्' इति अनुच्छेदं पठित्वा प्रदूषणनिवारणार्थं स्वविचारान् लिखत।Show solution
अद्यत्वे देहल्याः वातावरणम् अतीव प्रदूषितम् अस्ति। वायौ कार्बनमोनोऑक्साइड, सल्फरऑक्साइड, हाइड्रोकार्बन, अमोनिया इत्यादीनि विषाक्ततत्त्वानि व्याप्तानि सन्ति। जनाः श्वासरोगेण ग्रस्ताः भवन्ति। प्रदूषणस्य कारणानि — औद्योगिकसंस्थानां बाहुल्यम्, वाहनधूमाः, पलालज्वालनम्, स्फोटकपदार्थज्वालनम् इत्यादीनि सन्ति।
प्रदूषणनिवारणार्थं स्वविचाराः:
1. वयं सार्वजनिकवाहनानाम् उपयोगं कुर्याम, येन वाहनधूमाः न्यूनाः भवेयुः।
2. वृक्षारोपणं कुर्याम, येन वायुः शुद्धः भवेत्।
3. पलालस्य ज्वालनं न कुर्याम।
4. विद्युच्चालितवाहनानाम् उपयोगः करणीयः।
5. जनाः पर्यावरणरक्षणविषये जागरूकाः भवेयुः।
3'अनुशासनम्' इति अनुच्छेदं पठित्वा अनुशासनविषये स्वविचारान् लिखत।Show solution
जीवने अनुशासनस्य अत्यधिकं महत्त्वम् अस्ति। अनुशासनपालनेन व्यक्तित्वस्य सन्तुलितः विकासः भवति। समयपालनस्य प्रवृत्तिः विवर्धते। सामाजिकताया अपि विकासः भवति। कर्तव्याकर्तव्यस्य ज्ञानं प्राप्यते। अनुशासनम् अस्मान् सन्मार्गं प्रति प्रेरयति।
अनुशासनविषये स्वविचाराः:
1. अनुशासनम् एव सफलजीवनस्य आधारः अस्ति।
2. विद्यालये, गृहे, समाजे च अनुशासनस्य पालनं करणीयम्।
3. समयस्य सदुपयोगः अनुशासनस्य प्रमुखः अंशः अस्ति।
4. अनुशासनेन वयं स्वलक्ष्यं प्राप्तुं समर्थाः भवामः।
5. अनुशासनस्य प्रवृत्तिः बाल्यकालात् एव विकसनीया।
4'विमुद्रीकरणम्' इति अनुच्छेदं पठित्वा विमुद्रीकरणस्य पक्षे विपक्षे च स्वमतं प्रकटयत।Show solution
2016 तमे वर्षे नवम्बरमासस्य अष्टम्यां तारिकायां प्रधानमन्त्रिणा पञ्चशत-सहस्ररूप्यकाणां निषेधः घोषितः। उद्देश्यम् आसीत् — कृष्णधनस्य निवारणम्। जनाः मासद्वयं काठिन्यम् अनुभूतवन्तः परन्तु सहयोगं कृतवन्तः। परिणामेन सर्वं धनं वित्तकोशे समायातम्।
पक्षे मतम्:
1. विमुद्रीकरणेन कृष्णधनस्य निवारणम् अभवत्।
2. भ्रष्टाचारः न्यूनः जातः।
3. डिजिटलव्यवहाराणां वृद्धिः अभवत्।
विपक्षे मतम्:
1. सामान्यजनाः अत्यधिकं काठिन्यम् अनुभूतवन्तः।
2. लघुव्यापारिणः हानिम् अनुभूतवन्तः।
3. कृषिकार्यं प्रभावितम् अभवत्।
निष्कर्षः: विमुद्रीकरणस्य उद्देश्यं शोभनम् आसीत्, परन्तु तस्य क्रियान्वयने अधिकः विचारः करणीयः आसीत्।
5'परीक्षा' इति अनुच्छेदं पठित्वा परीक्षाविषये स्वविचारान् लिखत।Show solution
परीक्षायाः नामोच्चारणेन एव भयं जायते। मनसि चिन्ता आयाति। पठितमपि विस्मृतम् इव प्रतीयते। परीक्षाप्रश्नपत्रस्य चिन्ता गुरुतरा भवति।
परीक्षाविषये स्वविचाराः:
1. परीक्षा अस्माकं ज्ञानस्य मापनं करोति, अतः तस्याः भयं न करणीयम्।
2. नियमितः अभ्यासः परीक्षाभयं दूरीकरोति।
3. परीक्षायाः पूर्वं पर्याप्तनिद्रा, सन्तुलिताहारः च आवश्यकः।
4. परीक्षाकाले मनः शान्तं रक्षणीयम्।
5. परीक्षा जीवनस्य एकः अंशः अस्ति, न तु जीवनस्य अन्तः। अतः धैर्येण परीक्षां दातव्या।
निष्कर्षः: परीक्षा अस्माकं शत्रुः नास्ति, सा तु अस्माकं प्रगतेः मापकम् अस्ति। नियमितपरिश्रमेण परीक्षायां सफलता प्राप्यते।
Stuck on a step?
Ask Super Tutor AI to explain any solution on this page in a simpler way — free, 24x7.
Ask a Doubt FreeFrequently Asked Questions
What are the important topics in संवादानुच्छेदलेखनम् for CBSE Class 9 Sanskrit?
How to score full marks in संवादानुच्छेदलेखनम् — CBSE Class 9 Sanskrit?
Where can I get free NCERT Solutions for संवादानुच्छेदलेखनम् Class 9 Sanskrit?
Sources & Official References
- NCERT Official — ncert.nic.in
- CBSE Academic — cbseacademic.nic.in
- CBSE Official — cbse.gov.in
- National Education Policy 2020 — education.gov.in
Content is aligned to the official syllabus. Refer to the board website for the latest curriculum.
More resources for संवादानुच्छेदलेखनम्
Important Questions
Practice with board exam-style questions
Syllabus
What topics to cover
Revision Notes
Key points for last-minute revision
Study Plan
Step-by-step plan to ace this chapter
Flashcards
Quick-fire cards for active recall
Formula Sheet
All formulas in one place
Chapter Summary
Understand the chapter at a glance
Practice Quiz
Test yourself with a quick quiz
Concept Maps
See how topics connect visually
For serious students
Get the full संवादानुच्छेदलेखनम् chapter — for free.
Quizzes, flashcards, AI doubt-solver and a step-by-step study plan for CBSE Class 9 Sanskrit.