पत्रलेखनम् — NCERT Solutions
CBSE · Class 10 · Sanskrit
NCERT Solutions for पत्रलेखनम्, CBSE Class 10 Sanskrit: 11 textbook questions solved step by step. Covers (क) अनौपचारिकम् पत्रम् and (ख) औपचारिकम् पत्रम्.
Interactive on Super Tutor
Studying पत्रलेखनम्? Get the full interactive chapter.
Quizzes, flashcards, AI doubt-solver and a step-by-step study plan — built for NCERT solutions and more.
Free trial, no card needed.
The first 6 solutions are open to read. The other 5 are free with a Super Tutor account.
(क) अनौपचारिकम् पत्रम्
1चोरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्रं लिखत।Show solution
दिनाङ्क: __.__.____
सेवायाम्
आरक्ष्यधिकारि-महोदय!
लाजपतनगर-क्षेत्रम्
नवदेहली
विषय: चोरितस्य स्यूतस्य प्राथमिक-सूचना।
श्रीमन्,
अनेन पत्रेण अहं भवते एतत् सूचयामि यत् ह्यः प्रातः एकादश-वादने रेलमैट्रोयानेन विश्वविद्यालयात् अहं लाजपतनगरम् अगच्छम्। मार्गे मम स्यूतं चोरितम् अभवत्। यस्मिन् द्विसहस्रं रूप्यकाणि, कार्यालयस्य परिचय-पत्रं, मैट्रोचिटिकापत्रं, मम आधार-परिचयपत्रं च आसन्। स्यूतस्य वर्णः कृष्णः आसीत्।
अहं प्रार्थये यत् यथाशीघ्रं मम स्यूतम् अन्वेष्य मां कृतार्थं करोतु भवान्।
सधन्यवादम्
निवेदकः
अजयः
निवासस्थानम् — ...
दूरभाष-संख्या — ...
2चोरिताया: घटिकाया: प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्रं लिखत।Show solution
दिनाङ्क: __.__.____
सेवायाम्
आरक्ष्यधिकारि-महोदय!
सदर-बाजार-क्षेत्रम्
नवदेहली
विषय: चोरिताया: घटिकाया: प्राथमिक-सूचना।
श्रीमन्,
सविनयं निवेद्यते यत् ह्यः सायंकाले पञ्चवादने अहं बाजारे क्रयणाय गतवान् आसम्। तत्र जनसमूहे मम हस्तघटिका चोरिता अभवत्। सा घटिका रजतवर्णीया आसीत्, तस्याः मूल्यं च पञ्चसहस्रं रूप्यकाणि आसीत्। सा घटिका मम पितृभ्यां जन्मदिने उपहारस्वरूपेण प्रदत्ता आसीत् अतः तस्याः मह्यं विशेषं महत्त्वम् अस्ति।
अतः भवन्तं प्रार्थये यत् यथाशीघ्रं मम घटिकाम् अन्वेष्य मां कृतार्थं कुर्वन्तु। एतदर्थम् अहं सर्वदा सहयोगं दातुं सज्जः अस्मि।
सधन्यवादम्
निवेदकः
रमेशः
निवासस्थानम् — ...
दूरभाष-संख्या — ...
(ख) औपचारिकम् पत्रम्
1विज्ञानविषयं प्राप्तुं प्रधानाचार्यं प्रति आवेदनपत्रम् लिखत।Show solution
दिनाङ्क: __.__.____
सेवायाम्
प्रधानाचार्यमहोदय!
मीमांसाविद्यालयः, नवदेहली
विषय: एकादशकक्षायां विज्ञानविषयग्रहणार्थं विशेषानुमतये निवेदनम्।
महोदय,
सविनयं निवेद्यते यदहमस्मिन् विद्यालये प्रथमकक्षातः पठामि। प्रतिवर्षमहम् उत्तमान् अङ्कान् प्राप्य कक्षायां प्रथमस्थानमेव अधिगच्छामि स्म। परमस्मिन् वर्षे परीक्षामध्ये एवाहम् अकस्मात् ज्वरग्रस्तः अभवम्। विज्ञानविषयस्य तु परीक्षाऽपि मया चिकित्सालयात् एव परीक्षाकेन्द्रं प्राप्य प्रदत्ता। फलतः मया आशानुकूलः परीक्षापरिणामः न प्राप्तः। विद्यालयनियमानुसारं विज्ञानविषय-ग्रहणाय प्रतिशतं केवलम् एकस्य एव अङ्कस्य न्यूनता अस्ति।
महोदय! शैशवादेव मम हार्दिकी इच्छा जीवविज्ञाने शोधं कृत्वा वैज्ञानिकः भवितुम् आसीत्। परं यदि अहं विज्ञानविषये प्रवेशमेव प्राप्तुम् असमर्थः भविष्यामि तदा कथमहं स्वकीयं स्वप्नं सार्थकं करिष्यामि। अतः मम करबद्धः अनुरोधः अस्ति यत् मां विज्ञानविषयं पठितुं भवान् अनुमतिं प्रयच्छतु। एतदर्थम् अहं पुनः परीक्षणाय अपि सज्जः अस्मि।
आशासे यत् भवान् मम स्थितिम् अवगत्य मम विशेषानुरोधं स्वीकरिष्यति।
कृपाकाङ्क्षी
भवदाज्ञाकारी शिष्यः
नाम — ...
कक्षा — दशमी
क्रमाङ्कः — ...
2अध्ययनं प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत। (मञ्जूषा: कुशलम्, प्रतियोगिता:, कुशलिनी, परिणाम:, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल:)Show solution
दिनाङ्क: __.__.____
परीक्षाभवनतः
पूज्यमातृचरणाः,
प्रणतीनां शतम्।
अत्र अहं कुशलम्। आशासे भवती पितृमहोदयः च कुशलिनी स्तः। मातः! अहं जानामि यद् भवती मम अर्धवार्षिक-परीक्षापरिणामकारणात् चिन्तिता अस्ति।
अत्र चिन्ता न करणीया। प्रथमसत्रे तु अहं खेलप्रतियोगितासु रता आसम्। पठनाय तु काल: एव न आसीत् परम् अधुना तु सर्वाः प्रतियोगिताः समाप्ताः। अद्यारभ्य अहं केवलं पठने एव मतिम् विधास्यामि। आशासे वार्षिकपरीक्षायां मम परिणामः भवताम् आशानुकूलः भविष्यति। शेषं सर्वं आनन्देन।
भवत्याः चरणयोः प्रणामाः।
भवत्याः पुत्री
सुकन्या
3जलसंरक्षणस्य महत्वं वर्णयन्तः मित्रं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत। (मञ्जूषा: देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु)Show solution
दिनाङ्क: __.__.____
छात्रावासतः
प्रिय मित्र!
सप्रेम नमो नमः,
अत्र कुशलं तत्र अस्तु। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रैः सह जलसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः प्रयासः अस्ति। वयं सर्वे एव जानीमः यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव जीवनम् इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य अपव्ययम् कुर्मः। अनेन आगामिकाले यद् भीषणं जलसङ्कटं भवेत् इति कोऽपि न विचारयति। जलसंरक्षणार्थं जागरूकता अनिवार्या एव। यदि जनाः अत्र ध्यानं न दास्यन्ति तदा अस्माकं देशस्य स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं प्रयतमानाः सन्ति तथा एव अस्माकं देशस्य अपि स्थितिः भविष्यति। अतः जलसंरक्षणार्थे जागरूकता अनिवार्या। शेषं सर्वे कुशलम्। पितृभ्यां चरणयोः मम वन्दनम्।
भवतः मित्रम्
उमेशः
4स्वस्थभोजनस्य महत्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम् (पठनीयम् — नमूनापत्रम्)।Show solution
[नमूनापत्रम् — पाठ्यपुस्तकानुसारम्]
प्रिय अमित!
सप्रेम नमो नमः।
मातृलिखितं पत्रं प्राप्तम्। तेन पत्रेण मया ज्ञातं यत् भवान् सन्तुलितं भोजनं न सेवते, प्रतिदिनं च 'चाऊमीन-बर्गर' इति खादति। ईदृशं भोजनं स्वास्थ्याय सम्यक् न अस्ति। कदाचित् तु अस्य सेवनं कर्तुं शक्यते परं प्रतिदिनं त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्।
स्वास्थ्याय तु सन्तुलितभोजनं ग्रहीतव्यम् एव यतः 'स्वस्थशरीरम् एव स्वस्थमनसः वासः' भवति। अतः भवान् त्वरितभोजनस्य सेवनं मा करोतु। स्वास्थ्यवर्धकभोजनमेव खादतु। अनेन भवान् कदापि रुग्णः न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवतः अग्रजा
अमिता
Free with a Super Tutor account
Free with a Super Tutor account
Free with a Super Tutor account
Free with a Super Tutor account
Free with a Super Tutor account
5 more solved questions in पत्रलेखनम्
They are free with a Super Tutor account, along with practice quizzes and flashcards for this chapter. Free to start, no card needed.
Frequently Asked Questions
What are the important topics in पत्रलेखनम् for CBSE Class 10 Sanskrit?
Are these NCERT Solutions for पत्रलेखनम् free?
How should I revise पत्रलेखनम् for the CBSE Class 10 board exam?
Sources & Official References
- NCERT Official — ncert.nic.in
- CBSE Academic — cbseacademic.nic.in
- CBSE Official — cbse.gov.in
- National Education Policy 2020 — education.gov.in
Content is aligned to the official syllabus. Refer to the board website for the latest curriculum.
More resources for पत्रलेखनम्
Practice Quiz
Test yourself with a quick quiz
Important Questions
Exam-style questions with answers
Revision Notes
Key points for last-minute revision
Chapter Summary
Understand the chapter at a glance
Concept Maps
See how topics connect
Study Plan
Step-by-step plan for this chapter
Flashcards
Quick-fire cards for active recall
Syllabus
What topics to cover
For serious students
Get the full पत्रलेखनम् chapter — start free.
Quizzes, flashcards, an AI doubt solver and a study plan for CBSE Class 10 Sanskrit. Free to start, no card needed.